|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.31. अध्यायः 031
Mahabharata - Karna Parva - Chapter Topics
कर्णस्य रणप्रयाणकाले दुर्निमित्तप्रादुर्भावः॥ 1 ॥ कर्णेनात्मश्लाघनपूर्वकं पार्थवधे प्रतिज्ञाते तदसहमानेन शल्येनार्जुनप्रशंसनपूर्वकं कर्णोपालम्भः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-31-0x(4914)(56378)
दृष्ट्वा कर्णं महावीर्यं युयुत्सं समवस्थितम्।
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः॥ 8-31-1(56379)
ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च।
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्।
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम्॥ 8-31-2(56380)
प्रयाते तु ततः कर्णे रथेषु मदितेषु च।
चचाल च मही सर्वा ररास च सुविस्वरम्॥ 8-31-3(56381)
निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः॥ 8-31-4(56382)
उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः।
तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः॥ 8-31-5(56383)
मृगपक्षिगणाश्चैव पृतनां बहुशस्तव।
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम्॥ 8-31-6(56384)
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि।
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम्॥ 8-31-7(56385)
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे।
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते॥ 8-31-8(56386)
एते चान्ये च बहव उत्पातास्तत्र मारिष।
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः॥ 8-31-9(56387)
न च तान्गणयामासुः सर्वे दैवेन मोहिताः।
प्रस्थितं सूतपुत्रं च जयेत्सूचुर्नराधिपाः॥ 8-31-10(56388)
`शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्'।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः॥ 8-31-11(56389)
ततो रथस्थः परवीरहन्ता
भीष्मद्रोणवतिवीर्यौ समीक्ष्य।
समुज्ज्वलन्भास्करपावकाभो
वैकर्तनोऽसौ रथकुञ्जरो वृषा॥ 8-31-12(56390)
अलं मनुष्यस्य सुखाय वर्तितुं
तथाहि युद्वे निहतः परैर्गुरुः॥ 8-31-20(56398)
हुताशनादित्यसमानतेजसं
पराक्रमे विष्णुपुरन्दरोपमम्॥
नये ब-हस्पत्युशनःसमं सदा
न चैनमस्त्रं तदुपास्त दुःसहम्॥ 8-31-21(56399)
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे
पराभूते पौरुषे धार्तराष्ट्रे।
कृत्यं मया नाद्य जानामि शल्य
प्रयाहि तस्माद्द्विषतामनीकम्॥ 8-31-22(56400)
स यत्र राजा पाण्डवः सत्यसन्धो
व्यवस्थितो भीमसेनार्जुनौ च।
स वासुदेवः सात्यकिः सृञ्जयाश्च
यमौ च कस्तान्विषहेन्मदन्यः॥ 8-31-23(56401)
तस्मात्क्षिप्रं मद्रपते प्रयाहि
रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च।
तान्वा हनिष्यामि समेत्य सङ्ख्ये
यास्यामि वा द्रोणमुखो यमाय॥ 8-31-24(56402)
न त्वेवाहं न गमिष्यामि मध्ये
तेषां शूराणामिति शल्याद्य विद्वि।
मित्रद्रोहो मर्षणीयो न मेऽयं
त्यक्त्वा प्राणाननुयास्यामि द्रोणम्॥ 8-31-25(56403)
प्राज्ञस्य मूढस्य च जीवितान्ते
नास्ति प्रमोक्षोऽन्तकसन्निभस्य।
अतो विद्वन्नभियोत्स्यामि पार्थं
दिष्टं न शक्यं व्यतिवर्तितुं वै॥ 8-31-26(56404)
कल्याणवृत्तः सततं हि राजा
वैचित्रवीर्यस्य सुतो ममासीत्।
तस्यार्थसिद्व्यर्थमहं त्यजामि
प्रियान्भोगान्दुस्त्यजं जीवितं च॥ 8-31-27(56405)
वैयाघ्रचर्माणमकूजनाक्षं
हैमं त्रिकोशं रजतत्रिवेणुम्।
रथप्रबर्हं तुरगप्रबार्है--
र्युक्तं प्रादान्मह्यमिमं हि रामः॥ 8-31-28(56406)
धनूंषि चित्राणि निरीक्ष्य शल्य
ध्वजान्गदाः सायकांश्चोग्ररूपान्।
असिं च दीप्तं परमायुधं च
शङ्खं च शुभ्रं स्वनवन्तमुग्रम्॥ 8-31-29(56407)
पताकिनं वज्रनिपातनिः स्वनं
सिताश्वयुक्तं शुभतूणशोभितम्।
इमं समास्थाय रथर्षभं रणे
दृढं हनिष्याम्यहमर्जुनं बलात्॥ 8-31-30(56408)
तं चेन्मृत्युः सर्वहरोऽभिरक्षे--
त्सदाऽप्रमत्तः समरे पाण्डुपुत्रम्।
तं वा हनिष्यामि रणे समेत्य
यास्यामि वा द्रोणमुखो यमाय॥ 8-31-31(56409)
यमवरुणकुबेरवासवा वा
यदि युगपत्सगणा महाहवे।
जुगुपुरिह समेत्य फल्गुनं
किमु बहुना सह तैर्जयामि तम्॥ 8-31-32(56410)
सञ्जय उवाच। 8-31-33x(4915)
इति रणरभसस्य कत्थत--
स्तदुपनिशम्य वचः स मद्रराट्।
अवहसदवमन्य वीर्यवान्
प्रतिषिषिधे च जगाद चोत्तरम्॥ 8-31-33(56411)
शल्य उवाच। 8-31-34x(4916)
विरम विरम कर्ण कत्थना--
दतिरभसोऽप्यतिवाचमुक्तवान्।
क्व च हि नरवरो धनञ्जयः
क्व पुनरिह त्वमहो नराधमः॥ 8-31-34(56412)
यदुसदनमुपेन्द्रपालितं
त्रिदिवमिवामरराजरक्षितम्।
प्रसभमतिविलोड्य को हरे--
त्पुरुषवरावरजामृतेऽर्जुनात्॥ 8-31-35(56413)
त्रिभुवनसृजमीश्वरेश्वरं
क इह पुमान्भवमाह्वयेद्युधि।
मृगवधकलहे ऋतेऽर्जुनात्
सुरपतिवीर्यसमप्रभावतः॥ 8-31-36(56414)
असुरसुरमहोरगान्नरान्
गरुडपिशाचसयक्षराक्षसान्।
इषुभिरजयदग्निगौरवात्
स्वभिलषितं च हविर्ददौ जयः॥ 8-31-37(56415)
स्मरसि ननु यदा परैर्हृतः
सहधृतराष्ट्रसुतो विमोक्षितः।
अधिरथज नरोत्तमैर्युतान्
कुरुषु बहून्विनिहत्य तानरीन्॥ 8-31-38(56416)
प्रथममपि पलायिते त्वयि
प्रियकलहा धृतराष्ट्रसूनवः।
स्मरसि ननु यदा प्रमोचिताः
खचरगणानवजित्य पाण्डवैः॥ 8-31-39(56417)
समुदितबलवाहनाः पुनः
पुरुषवरेण जिताः स्थ गोग्रहे।
सगुरुगुरुसुताः सभीष्मकाः
किमु न जितः स तदा त्वयाऽर्जुनः॥ 8-31-40(56418)
इदमपरमुपस्थितं पुन--
स्तव निधनाय सुयुद्वमद्य वै।
यदि न रिपुभयात्पलायसे
समरगतोऽद्य हतोऽसि सूतज॥ 8-31-41(56419)
सञ्जय उवाच। 8-31-42x(4917)
इति बहुपरुषं प्रभाषति
प्रमनसि मद्रपतौ रिपुस्तवम्।
भृशमभिरुषितः सरन्तपः
कुरुपृतनापतिराह मद्रपम्॥ 8-31-42(56420)
कर्ण उवाच। 8-31-43x(4918)
भवतु भवतु किं विकत्थसे
ननु मर्म तस्य हि युद्धमुद्यतम्।
यदि स जयति मामिहाहवे
तत इदमस्तु सुकत्थितं तव॥ 8-31-43(56421)
सञ्जय उवाच। 8-31-44x(4919)
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्।
याहि शल्येति चाप्येनं कंर्णः प्राह युयुत्सया॥ 8-31-44(56422)
स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः।
निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा॥ 8-31-45(56423)
ततः प्रायात्प्रीतिमान्वै रथेन
वैयाघ्रेण श्वेतयुजाऽथ कर्णः।
स चालोक्य ध्वजिनीं पाण्डवानां
धनञ्जयं त्वरया पर्यपृच्छत्॥ ॥ 8-31-46(56424)
इति श्रीमन्महाभारते कर्णपर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-31-2 तरस्विनामश्वादीनाम्॥ 8-31-3 ररास शब्दं चकार॥ 8-31-4 निःसरन्तो युद्धार्थमिति शेषः। सूर्यात्सूर्यमारभ्य। सूर्यादयोऽन्योन्यं युध्यन्तीत्यर्थः॥ 8-31-12 भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः॥ 8-31-16 8-31-18 आतुरान् आसन्नमृत्यून्॥ 8-31-19 भावxxxxxमाति निश्चयम्॥ 8-31-20 अस्त्रादीनि मनुष्यस्य सुखायxxxxxxगिति सम्बन्धः॥ 8-31-21 उपास्त उपातिष्ठत। त्रातुमिxxxxxx अस्त्रादि॥ 8-31-25 तेषां भीष्मादीनां मध्ये न गमिष्यामीति न अपितु गमिष्याम्येवेत्यर्थः। सङ्ग्रामात्पलायने हि मित्रस्य दुर्योधनस्य द्रोहः कृतः स्यात्तच्चासह्यम्॥ 8-31-26 जीवितान्ते आयुषः समाप्तौ प्रमोक्षो मृत्युनिवर्तनम्॥ 8-31-28 वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम्॥ 8-31-33 रणरभसस्य रणोत्कटस्य॥ 8-31-34 अतिरभसोऽपि त्वं अतिवाचं स्वसामर्थ्यादधिकाम्॥ 8-31-35 पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम्॥ 8-31-39 खचरगणान् गन्धर्वान्॥ 8-31-46 श्वेतयुजा श्वेताश्वयुजा॥ 8-31-31 एकत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|